SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||२१-३२|| नियुक्ति: [५४५...] प्रत सूत्रांक -३२] &ावाssरम्भाः-सावद्यव्यापारास्तत्परिणतः-तत्प्रवृत्त्या तदात्मतां गतः, तथा 'वद्रः' सर्वस्यैवाहितैषी कार्पण्ययुक्तो वा, सहसा-अपलोच्य गुणदोषान् प्रवर्त्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः' पुरुष उपलक्षणत्वाल्यादिर्वा 'णिद्धंधस'त्ति अत्यन्तमैहिकामुष्मिकापायशङ्का विकलोऽत्यन्तं जन्तुवाधानपेक्षो वा परिणामोऽध्यवसायो या यस्य स तथा 'णिसंसोति 'नृशंसः' निस्तूंशो जीवान् विहिंसन् मनागपि न शकते, निःशंसो वा-परप्रशंसारहितः । 'अजितेन्द्रियः' अनिगृहीतेन्द्रियः, अन्ये तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तचेहेति, उपसंहारमाह एते च तेऽनन्तरोक्ता योगाश्च-मनोवाकायव्यापारा एतद्योगा:-पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति-भृशमाङित्यभिसाव्यात्या युक्तः-अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः' अवधारणे कृष्णलेश्यामेव 'परिणमेत् तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात्स्फटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्यायाः सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यममे, एवमुत्तरत्रापि लक्षदणत्वभावना कार्या । नीललेश्यालक्षणमाह-ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्च-तपोविपर्य योऽमीषां समाहारनिर्देशः, 'अविज'त्ति 'अविद्या' कुशावरूपा मायावञ्चनात्मिका 'अहीकता च' असमाचार-14 | विषया निर्लजता 'गृद्धिः' अभिकाङ्क्षा विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान् । -4445545 दीप अनुक्रम [१४०३-१४१४] 5600-%9 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~345
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy