________________
आगम
(४३)
प्रत
सूत्रांक
[४-१५]
दीप
अनुक्रम
[१३६१
-१३७२]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४-१५ || निर्युक्तिः [५३२...]
अध्ययनं [ ३३ ],
तिर्यञ्चः, व्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, तत एषामायुस्तिर्यगायुर्येनेतेषु स्थितिर्भवति, तथा मनोरपत्यानि मनुष्याः 'मनोजतावण्यती सुक्चे 'ति (पा. ४-१-१६१ ) यत्प्रत्ययः सुगागमस्तेषामायुर्मनुष्यायुः 'तथैव' तद्भावावस्थितिहेतुतयैव देवा-उक्तनिरुक्तास्तेषामायुर्देवायुर्येन तेष्ववस्थीयते चतुर्थ 'तुः' पूरणे, एवं चायुः कर्म चतुर्विधम् ९ । नामकर्म द्विविधं कथमित्याह - शोभते सर्वावस्थास्वनेनात्मेति शुभम् अशुभं च तद्विपरीतमाख्यातं 'सुहस्स'त्ति शुभस्यापि बहवो भेदा एवमेवाशुभस्यापि तदपि बहुभेदमिति भावार्थः । तत्रोत्तरोतरभेदतः शुभनाम्नोऽनन्त भेदत्वेऽपि विमध्यमविवक्षातः सप्तत्रिंशद्भेदाः, तद्यथा-मनुष्यगति १ देवगति २ पञ्चेन्द्रि यजाति ३ औदारिक ४ वैक्रिय ५ आहारक ६ तैजस ७ कार्मण ८ शरीराणि पञ्च समचतुरस्रसंस्थानं ९ वर्षभनाराचसंहननम् १० औदारिक ११ वैक्रिय १२ आहारक १३ अङ्गोपाङ्गानि त्रीणि प्रशस्तवर्ण १४ गन्ध १५ रस१६ स्पर्शाश्चत्वारः १७ मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ चेत्यानुपूर्वीद्रयमगुरुलघु २० पराघातम् २१ उच्छास २२ आतप २३ उद्योत २४ प्रशस्तविहायोगति २५ तथा त्रस २६ वादरं २७ पज्जतं २८ प्रत्येकं २९ स्थिरं ३० शुभं ३१ सुभगं ३२ सुखरम् ३३ आदेयं ३४ यशः कीर्त्तिश्चेति ३५ निर्माणं ३६ तीर्थकरनाम चेति ३७, एताश्च सर्वा अपि शुभानुभावात् शुभं तथाऽशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिंशद्भेदाः, तद्यथा-नरकगति १ तिर्यग्गति २ एकेन्द्रियजाति ३ द्वीन्द्रियजाति ४ श्रीन्द्रियजाति ५ चतुरिन्द्रियजाति ६ ऋषभनाराचं ७ नाराचं
Education intemational
For Party
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~321~