________________
आगम (४३)
प्रत सूत्रांक
[१०७]
दीप
अनुक्रम [१३५३]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३२], मूलं [--] / गाथा ||१०७|| निर्युक्ति: [५२६...]
'उपस्थितस्य' तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः किमित्याह-खसङ्कल्पानाम् - आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकल्पना-विशेषेण छेदनं स्वसङ्कल्पविकल्पना, दृश्यते हि छेदवाच्यपि कल्पशब्दः, यथोक्तम्- "सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥" ' आसुं'ति 'आशु' शीघ्रं 'संजायते' भवति, पठन्ति च- 'ससंकष्पविकप्पणासो'त्ति, तथा 'अत्थे असंकम्पयतो'ति, तत्र च खस्य - आत्मनः सङ्कल्पः - अध्यवसायस्तस्य विकल्पा- रागादयो भेदास्तेषां नाशः - अभावः स्वसङ्कल्पविकल्पनाशः, तथा को गुणः ? इत्याह- 'अर्थान्' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्ययस्यतः 'ततः' इति खसङ्कल्पविकल्पनातः स्वसंकल्पविकल्पनाशाद्वा 'से' तस्य प्रहीयते कामगुणेषु तृष्णेति सूत्रार्थः ॥ ततः स कीदृशः सन् किं विधत्ते : इत्याहसो वीयरागो कसव्यकिञ्चो, खवेइ नाणावरणं खणेणं ।
तव जं दरिसणमावरेइ, जं चंतराय पकरेइ कम्मं ॥ १०८ ॥
'सः' इति हीनतृष्णः ‘वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकषायगुणस्थानावातिरिति तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमा णस्वरूपं 'क्षणेन' समयेन तथैव यद् 'दर्शनं' चक्षुर्दर्शनादि 'आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यथ 'अन्तरायं' दानादिलब्धिविनं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर
For Parts Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~309~