SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-1 / गाथा ||२१|| नियुक्ति: [५२६...] बृहद्वृत्तिः ना० प्रत सत्राक [२१] उत्तराध्य. जे इंदियाणं विसया मणुण्णा, न तेसु भाव निसिरे कयाई। न यामणुन्नेसु मणपि कुजा, समाहि कामे समणे तबस्सी ।। २१॥ ये 'इन्द्रियाणां' चक्षुरादीनां 'विषयाः' रूपादयः 'मनोज्ञाः' मनोरमाः न तेषु' विषयेषु 'भावम्' अभिसन्धिम् , ॥६२८॥ अपेर्गम्यमानत्वादावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, 'निसृजेत्' कुर्यात् । 'कदाचित् कस्मिंश्चित्काले, 'न च' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्तयि तुम् अपिशब्दार्थश्च प्राग्वत् 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तकाञ्यं स च* दरागद्वेषाभाव एवेति स एवानेनोपलक्ष्यते, ततस्तत्कामो-रागद्वेषोद्धरणाभिलाषी श्रमणस्तपखीति च प्राग्वत्, नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभिधानम् ?, उच्यते, हेतुप्रक्रमात् , न चोभयोद्धरण हेतुतयैकोद्धरणहेतुता विरुध्यते, यदिवा तत्रापि रागस्य द्वेषोपलक्षणत्वादुभयोद्धरणोपायतैव विवक्षिता, किन्तु दतत्र विविक्तशय्या-सामान्येनैकान्तशय्या गृह्यते, तदवस्थानस्य च प्रतीतैव तदुद्धरणोपायता, एवं प्रकामभोजिन एव दर्पतो द्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्सलं प्रसङ्गेनेति सूत्रार्थः ॥ इत्थं रागद्वेषोद्धरणैषिणो विष- येभ्यो निवर्तनमिन्द्रियाणामुपदिष्टम् , अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि : तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह दीप अनुक्रम [१२६७] ॥२८॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~290
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy