________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||३१-३६|| नियुक्ति: [५१३...]
GianSUMAN
TR"TN
प्रत
सूत्रांक
बृहद्वृत्तिः ॥६०९॥
[३१
CONCE
-३६]
तस्मिन् 'दशविधे' दशप्रकारे, दशविधत्वं चाचार्यादिविषयभेदाद्, उक्तं हि-"आयरिय १ उवझाय २ थेर ३-1ोमा तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥१॥" 'आसेव-11 नम्' एतद्विषयमनुष्ठानं 'यथास्थानं' खसामर्थ्यानतिक्रमेण वैयावृत्त्यं तदाख्यातमिति ३॥ स्वाध्यायमाह-वायणे'- गत्य०३० त्यादि प्राग्व्याख्यातप्रायमेव ४॥ सम्प्रति ध्यानमाह-ऋतं-दुःखम् , उक्तं हि-"ऋतशब्दो दुःखपर्यायवाच्याथी-1 यते," ऋते भवमात, तथा रोदयत्यपरानिति रुद्रः-प्राणिवधादिपरिणत आत्मैव तस्खेदं कर्म रौद्रम् , आत च रौद्रं |च आर्सरौद्रे, प्राकृतत्याच बहुवचननिर्देशः, 'वर्जयित्वा' हित्वा ध्यायेत्सुसमाहितः प्राग्वत् , किमित्याह-धर्मःक्षमादिदशलक्षणस्तस्मादनपेतं धयं शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनात् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति-निरस्पतीति शुक्लमनयोर्द्वन्द्वस्ततःधर्म्यशुक्लथ्याने स्थिराध्यवसानरूपे, उक्त हि-"जं घिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"ति, "ध्यानं ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव |बुधाः 'वयंति' वदन्ति ५॥ अधुना व्युत्सर्गमाह-शय्यत इति शयनं-संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रासनम्
उपवेशनं तस्मिन् , उभयत्र सूत्रत्वात्सुपोर्लुक् 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे प्रत्येकं च योज्यते, खशक्त्यपेक्षं स्थित ६०९॥ - १ आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणाम् । साधर्मिककुलगणसङ्ग्रे संगतं तदिह कर्त्तव्यम् ॥ १॥ २ यत् स्थिरमध्यवसानं तत् भ्यानं यत् चलत् तत् चित्तम् ।
दीप अनुक्रम [१२१९-१२२४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~252