SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [९-१३] दीप अनुक्रम [११९५ -१२०१] [भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||९-१३ || निर्युक्ति: [५१३...] अध्ययनं [३०], तद्विपरीतमविचारं, विचारश्च कायवाङ्मनोभेदात्रिविध इति तद्विशेषपरिज्ञानार्थमाह- 'कायचेष्टाम्' उद्वर्त्तनपरिवर्त्तनादिक कायप्रवीचारं 'प्रती' ति आश्रित्य 'भवेत्' स्यात्, तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहि भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समाश्रितमृदुसंस्तारं कः समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्राहितनमस्कारः समीपवर्त्तिसाधुदत्तनमस्कारो वा सत्यां शक्ती खयमुद्वर्त्तते, शक्तिविकलतायां चापरैरपि किञ्चित्कारयति, यत उक्तम्- "विडणमभुट्टाणं उचियं संलेहणं च काऊणं । पञ्चक्खति आहारं तिविहं च चउविहं वाबि ॥ १ ॥ उब्वत्तति परियन्तति सयमण्णेणावि कारए किंचि । जत्थ समत्थो नवरं समाहिजणयं अपडिबद्धो ॥ २ ॥” इङ्गिनीमरणमप्युक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यान स्तत्स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच छायां स्वयं संक्रामति, तथा चाह- 'इंगियमरणविहाणं आपषजं तु वियडणं दाउ संलेहणं च कार्ड जहासमाही जहा कालं ॥ १ ॥ पञ्चक्खति आहारं चउविहं णियमओ गुरुसगासे । इंगियदेसंमि तहा चेपि हु इंगियं कुणइ ॥ २ ॥ १ आलोचनमभ्युत्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहारं त्रिविधं चतुर्विधं वाऽपि ॥ १ ॥ उद्वर्त्तते परिवर्त्तते स्वयमन्येनापि कारयेत् किञ्चित् । यदि समर्थो नवरं समाधिजनकमप्रतिबद्धः ||२|| २ इङ्गिनीमरणविधानमाप्रत्रज्यं तु आलोचनां दत्वा । संलेखनां कृत्वा च यथासमाधि यथाकालम् ॥ १ ॥ प्रत्याख्याति आहारं चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि इङ्गितां करोति ॥ २ ॥ Education intemational For Fast Use Onl www.incibrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~237~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy