SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...] प्रत सूत्रांक [१R-७३] करणतः, तथा 'प्रकटलिङ्गः' स्थविरादिकल्परूपेण व्रतीति विज्ञायमानत्वात् 'प्रशस्तलिक' जीवरक्षणहेतुरजोहरणादिधारकत्वाद् 'विशुद्धसम्यक्त्वः' तथाप्रतिपत्त्या सम्यक्त्वविशोधनात् , तथा सत्त्वं च-आपत्खवैकल्यकरमध्यवसानकर च समितयश्च-उक्तरूपाः समाप्ताः-परिपूर्णा यस्य स समाससत्त्वसमितिः, सूत्रे निष्टान्तस्य प्राकृतत्वात्परनिपातः, |तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहरित्वात्, 'अपडिलेह'त्ति अल्पार्थे नत्र, ततोऽप्रत्युपेक्षित इत्यल्पोपकरणवादल्पप्रत्युपेक्षः, पठ्यते च-'अप्पपडिलेहित्ति, जितानि-बशीकतानि यतिरहमितिप्र-18 त्ययात्कथञ्चित्परिणामान्यथात्वेऽपीन्द्रियाणि येन स तथा, विपुलेन-अनेकभेदतया विस्तीर्णन तपसा समितिभिश्च सर्व विषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तो विपुलतपःसमितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां | परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम् , इह तु तासां सार्वत्रिकत्वमिति न पौनरुत्यम् ४२ । प्रतिरूपतायामपि वैयावृत्त्यादेव विशिष्टफलावासिरित्येतदनन्तरं वैयावृत्त्यं, तत्र व्यावृतः-कुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्त्यं तेन तीर्थकरनामगोत्रं कर्म निवनाति, उक्तं हि तद्धेतुकीतनावसरे-"वेयावचे समाही य"ति ४३ । वैयावृत्यवांच | सर्वगुणभाजनं भवतीति सर्वगुणसंपन्नतामाह-सर्वगुणा-ज्ञानादयस्तैः संपन्नो-युक्तस्तद्भावः सर्वगुणसंपन्नता तया 'अपुनरावृर्ति' पुनरिहागमनाभावो मुक्तिरितियावत्तां जनयति, अपुनरावृत्तिं प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां 'नो' नैव भागी' भाजनं भवति, तन्निवन्धनयोहमनसोरभावात् , सिद्धिसुखभाजनमेव भवतीति दीप अनुक्रम [१११४ ROCKGROG -११८७]] wwwjandiarary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~2134
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy