SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...] प्रत सूत्रांक [१R -७३] भद्र-कल्याणं यस्मिंस्तथा तस्य भावस्तत्ता तया,यदिवाऽऽगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्वद्भद्रतया-अन-14 वरतकल्याणतयोपलक्षितं कर्म निवभाति, शुभानुबन्धि शुभमुपार्जयतीति भावः २३ । इत्थं च पञ्चविधवाध्यायर-1 तेन श्रुतमाराधितं भवतीति तदाराधनोच्यते-श्रुतस्य 'आराधनया' सम्यगासेवनया 'अज्ञानम्' अनवबोधं 'क्षपयति' अपनयति, विशिष्टतत्त्वावबोधावाः, 'न च संक्लिश्यते' नैव रागादिजनितसंक्लेशभाग भवति, तद्वशतो नव नवसंवेगावाः , उक्तं हि-"जह जह सुयमो(मव)गाहइ अइसयरसपसरसंजुयमपुत्र । तह तह पल्हाइ मुणी णवराणवसंवेगसद्धाए ॥१॥"त्ति २४ । श्रुताराधना चैकाग्रमनःसंनिवेशनात एव भवत्यतस्तामाह-एकमग्रं-प्रस्तावाला च्छुभमालम्बनमस्येत्येकाग्रं तच तन्मनश्च तस्य संनिवेशना-स्थापना, एकाग्रे वा मनःसंनिवेशना तया चित्तस्खेतखत उन्मार्गप्रस्थितस्य निरोधो-नियत्रणा चित्तनिरोधस्तं करोति २५। एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति तमाह-संयमेन' पञ्चाश्रवविरमणादिना 'अणण्यत्त'ति अनंहस्कत्वम्' अविद्यमानकर्मत्वं जनयति, आश्रवविर-2 मणात्मकत्वादस्य २६ । संयमवतोऽपि न तपो विना कर्मक्षय इति तदाह-तपसा' वक्ष्यमाणेन 'चोदाणं'ति 'व्यवदानं' पूर्ववद्धकर्मापगमतो विशिष्टां शुद्धिं जनयति २७। इत्थं व्यवदानस्य तपोऽनन्तरफलत्वात्त(स्य तदाह-व्यवदानेन 'अक्रियम्' अविद्यमानक्रिय, कोऽर्थः-व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थ भेदं जनयति, 'अक्रियाका' ब्युपरतक्रिया १ यथा यथा श्रुतमवगाहते अतिशयरसग्रसरसंयुतमपूर्वम् । तथा तथा प्रहादयति मुनिर्नवनवसंवेगश्रद्धया ॥१॥ दीप अनुक्रम [१११४ -११८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~205
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy