SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...] प्रत सूत्रांक [१R -७३] उपलक्षणत्वात्स्थितिघातरसघातगुणसङ्क्रमबन्धाश्च विशिष्टाः, अथवा करणगुणेन-अपूर्वकरणादिमाहात्म्येन श्रेणिः | करणगुणश्रेणिः प्रक्रमात्क्षपकश्रेणिरेव गृह्यते, यद्वा करणं-पिण्डविशुद्धादि तदुपलक्षितगुणाना ज्ञानादीना श्रेणिउत्तरोत्तरगुणपरम्पराखरूपा तां प्रतिपद्यते 'करणगुणसेढीपडिवणे यत्ति प्राग्वत्प्रतिपन्नकरणगुणश्रेणिकश्चानगारः 'मोहनीय दर्शनमोहनीयादि कर्म 'उद्घातयति' क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिरित्यर्थत उक्तैव भवति ६ ॥ हा कश्चिदात्मनोऽत्यन्तदुष्टतां परिभावयन् न निन्दामात्रेण तिष्ठेत किन्तु गहामपि कर्यादिति तामाह-'गरिहणयाए'त्ति गर्हणेन-परसमक्षमात्मनो दोषोद्भावनेन 'अपुरकारंति पुरस्करणं पुरस्कारो-गुणवानयमिति गौरवाध्यारोपो न तथाऽपुरस्कारः-अवज्ञास्पदत्वं तं जनयत्यात्मन इति गम्यते, तथा चापुरस्कारं गतः-प्राप्तः अपुरस्कारगतःसर्वत्रावज्ञास्पदीभूतो जीवः कदाचित्कदध्यवसायोत्पत्तावपि तद्भीतित एव 'अप्रशस्तेभ्यः' कर्मबन्धहेतुभ्यो योगेभ्यः 'निवर्त्तते' तान् न प्रतिपद्यते, प्रशस्तयोगांस्तु प्रतिपद्यत इति गम्यते, 'पसत्थजोगपडिवन्ने यत्ति प्रतिपन्नप्रशस्तयोगोऽनगारोऽनन्तविपयतयाऽनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् 'पर्यवान्' प्रस्तावात् ज्ञानाव-11 रणादिकर्मणस्तद्घातित्वलक्षणान् परिणतिविशेषान् 'क्षपयति' क्षयं नयति, पर्यवाभिधानं च तद्रूपतयैव द्रव्यस्य विनाश इति ख्यापनार्थम् , उपलक्षणं चैतन्मुक्तिप्राप्तेः, तदर्थत्वात्सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेवर फलत्वेन द्रष्टव्या ७ । आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति तदुच्यते-सामायिकेन' उक्तरू दीप अनुक्रम [१११४ -११८७] wwjanatarary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~193
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy