SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१] / गाथा ||--|| नियुक्ति: [५०९...] प्रत धर्मकायावस्थामास्थितेनेत्यर्थः, भगवता महावीरेण काश्यपेन 'प्रवेदित' खतः प्रवेदितमेव भगयता ममेदमाख्या-13 तमित्युक्तं भवति, अनेन वक्तृद्वारेण प्रस्तुताध्ययनस्य माहात्म्यमाह । ननु सुधर्मखामिनोऽपि श्रुतकेवलित्वात्तद्वारेणाप्यस्य प्रामाण्यं सिध्यत्येव तरिकमेवमुपन्यासः', उच्यते, लब्धप्रतिष्ठरपि गुरूपदिष्टं गुरुमाहात्म्यं च ख्यापयद्भिः |सूत्रमर्थश्चाख्येय इति ख्यापनार्थमेवमुपन्यासः, इत्थं वक्तृद्वारेणास्थ माहात्म्यमभिधाय संपति फलद्वारेणाह-'यदिति प्रस्तुताध्ययनं 'सम्यम्' अवैपरीत्येन 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य, यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, रोचयित्वा' तदभिहिता नुष्ठानविषयं तदध्ययनादिविषयं वाऽभिलाषमात्मन उत्पाद्य, संभवति हि कचिद्गुणवत्तयाऽवधारितेऽपि कदाचिदरुचिरित्येवमभिधानं, 'फासित्त'त्ति तदुक्तानुष्ठानतः स्पृष्ट्वा 'पालयित्वा' तद्विहितानुष्ठानस्यातीचाररक्षणेन 'तीर-1 यित्वा' तदुक्तानुष्ठानं पारं नीत्वा 'कीर्तयित्वा' खाध्यायविधानतः संशुम 'शोधयित्वा' तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावाप्तित उत्तरोत्तरशुद्धिप्रापणेन 'आराध्य' यथावदुत्सर्गापवादकुशलतया यावजीवं तदर्थासेवनेन, एतत् सर्व खमनीषिकातोऽपि स्यादत आह-आज्ञया' गुरुनियोगात्मिकया 'अनुपाल्य' सततमासेव्य, यद्वा 'स्पृष्ट्वा' योगत्रिकेण मनोवाकायलक्षणेन, तत्र मनसा-सूत्रार्थोभयचिन्तनेन वचसा-वचनादिना कायेन-भङ्गकरचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यं, 'पालयित्वा' परावर्त्तनादिनाऽभिरक्ष्य 'तीरयित्वा' अध्ययनादिना परि दीप अनुक्रम [१११२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~177
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy