________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२८], मूलं [-] / गाथा ||२|| नियुक्ति: [५०२...]
प्रत
सत्राक
||२||
मस्स विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रह गति प्रति मार्गस्य कारणत्वं प्रतीयत एव,
तद्रूपाणि चामूनि चत्वारि कारणानीति, तथा ज्ञानदर्शने लक्षणं-चिहं यस्याः सा ज्ञानदर्शनलक्षणा, यस्य हि दातत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोमूलकारणतां दर्शयितुमित्थमुपन्यासः, यद्वार
मोक्षे-उक्तलक्षणे मार्गः-शुद्धो 'मृजू शुद्धा विति धातुपाठात्तस्य गतिः-प्राप्तिस्तां ज्ञानदर्शने-विशेषसामान्योपयोगनीरूपे लक्षणम्-असाधारणं खरूपं यस्याः सा तथा तां, न चेह नियुक्तिकृता मार्गगस्योरन्यथान्याख्यानातद्विरोधः,
अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस तेनाभिधानात्, शेषं प्राग्वदिति सूत्रार्थः ॥ यदुक्तं 'मोक्षमार्गगतिं शृणुते ति, तत्र मोक्षमार्ग तावदाह
नाणं च दसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पन्नत्तो, जिणेहिं वरदंसिहि ॥२॥ ज्ञायते-अवबुध्यतेऽनेन वस्तुतचमिति ज्ञानं, तच्च सम्यगज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेद, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यगरूपमेव, दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्पादितमहंदभिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम्, 'एच' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति-गच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं, तपति पुरोपातकर्माणि क्षपणेनेति तपो-बाह्याभ्यन्तरभेदभिन्नं यदहद्वचनानुसारि तदेव समीची-12
दीप अनुक्रम [१०७७]
4991
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~145