________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२७], मूलं [-] / गाथा ||१७|| नियुक्ति: [४९५...]
SEARCH
प्रत सूत्रांक ||१७||
गलिगर्दभाः, यदि परमित्युपस्कारः, गर्दभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिकामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिगर्दभानिव गलिगर्दभान्-दुःशिष्यां|स्त्यक्त्वा रढं' चार्ट'प्रगृहामि पाठान्तरतः परिगृह्णाति वा अङ्गीकुरुते,तदनुशासनरूपपलिमन्थत्यागतः,एकत्र सामान्येन गुरुरन्यत्र तु गर्गनामा, किन्तु 'तपः' अनशनादीति सूत्रद्वयार्थः ॥ ततः कीदृशः सन् किमसौ कुरुते ? इत्याहमिउमद्दवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ १७॥ त्तिवेमि ।।
॥खलुकिजं ॥ २७॥ 'मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसंपन्नः' अन्तःकरणतोऽपि ताडगेव, कुशिष्यसन्निधौ हि मृदुरपि खरूपतो. मृदुरेवासीत् , उक्तं हि प्राकू-"अणासवा थूलवया कुसीला, मिउंपि चंडं पकरति सीसा" इति, अत एव 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्टु चित्तसमाधानवान् विहरति' अप्रतिबद्धविहारेण पर्यटति 'महीं' पृथ्वी महात्मा शील-चारित्रं भूतः-प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसंपन्नतेति खलुइताया इहैवात्मनो गुरूणां च दोपहेतुत्वेन तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पयोंथेः ॥ 'इति' परिसमाप्ती, अधीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां खलुकीयं नाम सप्तविंशमध्ययनं समाप्तम् ॥ २७॥
*
दीप अनुक्रम [१०७५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अत्र अध्ययन- २७ परिसमाप्तं
~141