________________
आगम
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२२], मूलं [-] / गाथा ||१-१६|| नियुक्ति: [४३९...]
(४३)
प्रत
सूत्रांक
||१-१६||
गौतमसगोत्रः 'कालकच्छविः' कृष्णत्वक् । 'झसोदरो'त्ति झपो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ । झपोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरी यदुपु निहते जरासिन्धनृपतावधिगतभरताईराज्यः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह-'तस्य' अरिष्टनेमिनो राजीमती भायाँ गन्तुमिति शेषः, याचते केशवस्त जनकमिति प्रक्रमः । सा च कीदृशीत्याह-'अथ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा-तस्यैव वरकन्या राजवरकन्या सुष्टु शीलं-खभायो यस्याः सा |सुशीला चारु प्रेक्षितुं-अवलोकितुं शीलमस्याः चारुप्रेक्षिणी, नाधोरष्टितादिदोपदुष्टा, 'विजुसोयामणिप्पह'त्ति विशेषेण द्योतते-दीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्युदग्निः सौदामिनी |च तडित् , अन्ये तु सौदामिनी प्रधानमणिरित्याहुः । 'अथ' इति याचाऽनन्तरमाह जनकस्तस्याः-राजी
मत्या उग्रसेन इत्युक्तं, 'जा से'त्ति सुव्यत्ययाद् येन तस्मै 'ददामि विवाहविधिनोपढौकयाम्यहम् । एवं च प्रतिसपनायामुग्रसेनेन राजीमत्यामासन्ने च कौष्ठिक्यादिष्टे विवाहलमे यदभूत्तदाह-सर्वाश्च ता औषधयश्च-जयाविजय
द्धिवृदयादयः सौंषधयस्ताभिः स्वपितः-अभिषिक्तः, कृतकौतुकमाल इत्यत्र कौतुकानि-ललाटस्य मुशलस्पर्श| नादीनि मङ्गलानि च-दध्यक्षतर्वाचन्दनादीनि 'दिवजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्य युगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्यमतिवृद्धं वा गुणैः
दीप
अनुक्रम [७९७-८१२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~14