________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०४०], भाष्यं [१८८...]
545056450र
प्रत
सूत्रांक
प्रत्याख्यान, 'भावे पुणो दुविहति भाव इति द्वारपरामर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भा-17 वस्य-सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थ वा भाव एव वा-सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः ॥ १०४०॥ साम्प्रतं द्वैविध्यमेवोपदर्शयन्नाहसुअ णोसुअ सुअदुविहं पुष्व १ मपुव्वं २ तु होइ नायब्वं । नोमुअपचक्खाणं मूले १ तह उत्तरगुणे अ२॥१०४१॥ | व्याख्या-'सुयणोसुयत्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुवमपुवं तु होइ णाययंति पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्वश्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणीति | नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे यत्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्व, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः॥१०४१।। इह च वृद्धसम्प्रदायः 'पञ्चक्खाणे उदाहरणं रायधूयाए-वरिसं मंसं न खाइय, पारणए अणेगाणं जीवाणं घाओ कओ,साहहिं संबोहिया, पवइया, पुर्व दबपञ्चक्खाणं पच्छा भावपञ्चक्खाणं जातमिति कृतं प्रसझेन।प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते-इह चाऽऽदौ भावार्थमेवाभिधित्सुराह
प्रत्याख्याने उदाहरणं राजदुहितुः-वर्ष मांस न खादितं, पारणकेऽनेकेषां जीवानां धातः कृतः, साधुभिः संबोधिता, प्रनजिता, पूर्व द्रव्यप्रत्याज्यान, पश्चाहावप्रत्याख्यानं जातं ।
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~94