________________
आगम (४०)
[भाग-३०] “आवश्यक”-मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०१६...], भाष्यं [१५६]
प्रत
सूत्रांक
चेति गाथासमासार्थः ॥ व्यासार्थ तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह18 निजीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाइ रूवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ (भा०)
| व्याख्या-यद् यन्निजीवानां पदार्थानां क्रियते-निर्वत्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूप-17 कर्मादि वा कुट्टिमादौ अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ जीवप्पओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥ १५८ ॥ (भा०)। | व्याख्या-जीवप्रयोगकरणं 'द्विविधं' द्विप्रकार-मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथम' मूलप्रयोगकरणमिति गाथार्थः ॥ ओरालियाइआई ओहेणिभरं पओगओ जमिह । निष्फण्णा निष्फजइ आइल्लाणं च तं तिण्हं ॥१५९॥ (भा):
व्याख्या-औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओधेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं-'प्रयोगतः' प्रयोगेणैव यद् ‘इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम् , एतदुक्तं (ग्रं ११५०० ) भवति-पश्चानामौदारिकादिशरीराणामाचं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः ॥ १५९ ॥ तत्रौदारिकादीनामष्टाङ्गानि मूलकरणानि, तानि चामूनि
अनुक्रम
JAMERStumha
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~52