________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७३...] भाष्यं [२०६...],
प्रत
20CTRESS
सूत्रांक
[सू.]
दीप अनुक्रम [२४]
प्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयात्तु तिर्यग्देवादेः सकाशाद्य परलोकभयम्, आदीयत इत्यादान-धन | ते तदर्थं चौरादिभ्यो यद्यं तदादानभयम्, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राध्यादौ भयम् अकस्माद्यं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं, मरणाद्यं मरणभयं प्रतीतमेव, 'असिलोगोत्ति अश्लाघाभयम्-अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तनयान प्रवतत इति गाथाशकलाक्षरार्थः ॥ मदः-मान [ग्रन्थाग्रं० १६५००] स्तस्य स्थानानि-पर्याया भेदामदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानः करणभूतैयों मया देवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेवायोज्य, कानि पुनरष्टौ मदस्थानानि ?, अत आह सहणिकार:
जाईकुलबलरूवे तवईसरिए सुए लाहे ॥१॥ अस्य व्याख्या-कश्चिन्नरेन्द्रादिः प्रत्रजितो जातिमदं करोति, एवं कुलबलरूपतपऐश्वर्यश्रुतलाभेष्वपि योज्यमिति ॥ नवभिब्रह्मचर्यगुप्तिभिः, शेषं पूर्ववत्, ताश्चेमाः
वसहिकहनिसिजिदिये कुईतरपुर्वकीलियर्पणीए । मामायाहरिविभूसणा य नव बंभगुतीयो ॥१॥ व्याख्या-ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं, न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं,
SAS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~428