SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...], प्रतिक्रमगा. समित्यधिक प्रत हारिभद्रीया सूत्रांक ॥१५॥ पडिक्कमामि पंचहि कामगुणहिं-सद्देणं रूपेणं रसेणं गंधेणं फासेणं । पडिकमामि पंचहि महव्वएहि, -पाणाइवायाओ वेरमणं मुसाबायाओ वेरमणं अदिण्णादाणाओ वेरमणं मेहुणाओ रमणं परिग्गहाओ वेरमणं । पडिकमामि पंचहिं समिईहि-ईरियासमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्टाचणियासमिइए ॥ सूत्रं ।। प्रतिक्रमामि पञ्चभिः कामगुणैः, प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्र काम्यन्त इति कामाः-शब्दादयस्त एव स्वस्वरूपगुणबन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा वझ्यत इति भावना ॥ प्रतिक्रमामि पञ्चभिर्महानतः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचारं प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि ?, तत्स्वरूपाभिधित्सयाssह-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विनियन्ते, प्रतिक्रमामि पञ्चभिः समितिभिः करणभूताभिर्योsतिचारः कृतः, तद्यथा-ईर्यासमित्या भाषासमित्येत्यादि, तत्र संपूर्वस्य 'इण् गता' वित्यस्य क्तिन्प्रत्ययान्तस्य समि- तिर्भवति, सम्-एकीभावेनेतिः समितिः, शोभनकायपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाकान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति, भाषणं भाषा तद्विषया समितिर्भापासमि दीप अनुक्रम CASSA [२३] ॥१५॥ व पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~367~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy