SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], प्रत सूत्रांक मित्यर्थः, तथा शुभादान'मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मक तस्याऽऽदान-ग्रहणं, किं-'चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयलेन' अक्लेशेन 'समेति' गच्छति प्रामो-14 तीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः -'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' (पा०३-२दि २८४) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रम् , एत दुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया | इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ॥ ३३ ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूप-16 गुणदर्शनार्थमाह सुविदियजगस्तभावो निस्संगो निभो निरासो य । वेरम्पभावियमणो झाणमि मुनिश्चलो होइ ॥ ३४ ॥ व्याख्या-सुप्तु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्तं-'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्थो| भावः स्वभावः,-'जन्म मरणाय नियतं वन्धुर्तुःखाय धनमनिवृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ॥१॥ इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-'निःसङ्गः' विषयजस्नेह सङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह-निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि x विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह-'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्त, चशब्दात्तथावि-18 धक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति दीप अनुक्रम [२१..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~320
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy