SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...], प्रत हारिभद्रीया सूत्रांक ॥५८४॥ णसाधने इह निवृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टेणं तिरिक्खगई कि रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुकझाणेणं ॥१॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धि-IMणाध्यानगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, शतकं तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यन्त्र व्याख्यानतो विशेषप्रतिपत्तिः(तः)तिर्यग्नरकभवग्रह इति गाथार्थः ॥ ५॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्दा, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे| तद्विप्रयोगाय स्मृतिसमन्याहारी ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्वा० अ०९ सू०३१-३२-1 ३३-३४) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह मणुषणाणं सदाइविसववरण दोसमहलस्स । धाणिय विमोचिंतणमसंपोगाणुसरणं च ॥६॥ व्याख्या-'अमनोज्ञाना'मिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थःन मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-'शब्दादिविषयवस्तूना मिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्काः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति | विग्रहस्तेषां, किं-प्तम्प्राप्तानां सतां 'धणियं' अत्यर्थं 'वियोगचिन्तन' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि | ॥५८४॥ आरोन तिर्यगतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्नध्यानेन ॥1॥ दीप अनुक्रम [२१..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~305
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy