SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९७७], भाष्यं [१५१...] आवश्यक हारिभद्रीया | वि०१ ॥४४५|| CASSESSAGE असरीरा जीवघणा उवउत्ता दसणे अ नाणे । सागारमणागारं लक्खणमेअं तु सिद्धाणं ॥ ९७७ ॥ नमस्कार | व्याख्या-अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति धनाश्चेति विग्रहः, घनग्रहणं | 2 शुपिरापूरणाद्, उपयुक्ताः, क?, 'दर्शने च' केवलदर्शने 'ज्ञाने च' केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थं सामान्यालम्बनदर्शनाभिधानमादावदुष्टमिति, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, 'लक्षणं' तदन्यव्यावृत्तं स्वरूपमित्यर्थः 'एतद् अनन्तरोत, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थः, 'सिद्धानां' निष्ठितार्थानामिति गाथार्थः ॥ ९७७ ॥ साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयति|केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवल दिहीहिणताहि ॥ ९७८ ॥ व्याख्या-केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तःकरणेन, तदभावादिति,किं ?, 'जानन्ति' अवगच्छन्ति सर्व|भावगुणभावान्' सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा 'पश्यन्ति सर्वतः खलु' खलुशन्दस्यावधारणार्थत्वात् सर्वत एव, केवलदृष्टिभिरनन्ताभिः' केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया ॥४४॥ तदुपयोगस्थाः सिद्धान्तीति ज्ञापनार्थमिति गाथार्थः ॥ ९७८॥ आह-किमेते युगपज्जानन्ति पश्यन्ति च ? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत् , कथमवसीयते ?, यत आह पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~27~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy