________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [...] / [गाथा-], नियुक्ति : [१२३६], भाष्यं [२०४...],
प्रत सूत्रांक
SEASESSES
[१..]
भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानीं, 'वृल वरणे' इत्यस्य ण्यन्तस्य ।
ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाहहै. णाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छविहो होइ ॥१२३७ ॥ | व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टे
देशनायां उपयुक्तस्य वा निवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावय॑ते क्रियते वा लाक्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावय॑ते क्रियते वा कालस्य वा विकालादेर्वर्षासु वा विहारस्येति, भाववाकरणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौषत एवोपयुक्तस्य
सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तन निवृत्तिः, सा च पोढा, यत आह
नाम ठवणा दविए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छब्बिहो होइ ।। १२३८॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र 'णिदि कुत्सायाम् अस्य 'गुरोश्च हलः' (पा०३-३-१०३) इत्यकार: दाप्, निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह
अनुक्रम [१०..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~242