SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [१०] [भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [३], मूलं [१] / [गाथा-], निर्युक्तिः [ १२१७...], भाष्यं [२०४...], क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने' इत्यस्याङन्तस्य क्षमा, 'श्रमु तपसि खेदे च अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रणं, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तर्यनीयच् यापयतीति यापनीया तथा, 'पिधु गत्याम्' अस्य निपूर्वस्य घञि निषेधनं निषेधः निषेधेन निर्वृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैवेधिकेस्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थे तु न भ्रूमः अयं च प्रकृतसूत्रार्थः - अवग्रहाद्वहिः स्थितो विनेयोऽर्द्धावनतकायः करद्वयगृहीतरजोहरणो वन्दनायोयत एवमाह-' इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं भवन्तमिति गम्यते, यापनीयया यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुर्व्याक्षेपादियुक्तः 'त्रिविधेने 'ति भणति, ततः शिष्यः संक्षेपयन्दनं करोति, व्याक्षेपादिविकलस्तु 'छन्दसे 'ति भणति, ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीध्वं अनुज्ञां प्रयच्छथ, 'मम' इत्यात्मनिर्देशे, के ? - मितश्चासाववग्रहश्चेति मिताचग्रहस्तं चतुर्दिशमिहाचार्य स्वात्मप्रमाणं क्षेत्र मवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति - अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तललाटं च कराभ्यां संस्पृशन्निदं भणति - अधस्तात्कायः अधः कायः - पादलक्षणस्तमधः कार्यं प्रति कायेन निजदेहेन संस्पर्शः काय संस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः- सह्यो भवताम् अधुना 'हमो' देहग्लानिरूपः, तथा अल्पं- स्तोकं क्लान्तं कुमो पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः ~ 230~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy