________________
आगम (४०)
[भाग-३०] "आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति: [१२१६], भाष्यं [२०४...],
प्रत
सूत्रांक
विनयाद्विपमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ १२१६ ॥ अतो विनयोपचारार्थ कृतिकर्म कियत इति स्थितम् । आह-विनय इति कः शब्दार्थ इति, उच्यतेजम्हा विणयइ कम्मं अहविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ १२१७॥
व्याख्या-यस्माद्विनयति कर्म-नाशयति कर्माष्टविध, किमर्थं:-चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा | विनीता गौनष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७ ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा । अत्रान्तरेऽध्ययनशब्दाथों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो| निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्थ निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रन 'इच्छामि खमासमणो वंदिउँ जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो मे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो, जत्ता भे? जवणिजं च भे? खामेमि खमासमणो! देवसियं वइक्कम, आवस्सियाए पडिकमामि खमासमणाणं देवसिआए आसारायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कड़ाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए
अनुक्रम [१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: वन्दन अध्ययने मूल्सूत्रस्य कथनं
~228