SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११२६], भाष्यं [२०३...], प्रत सूत्रांक ||७..|| सम्प्रकटसेवी न भवत्यपि अतस्तद्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ॥ ११२६ ॥ किं तक्रियत इत्यत आह वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं बंदणं वावि ॥११२७ ॥ | व्याख्या-'वायाए'त्ति निर्गमभूम्यादौ रष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त कीरशस्त्वमित्यादिलक्षणः, गुरुतरदापुरुषकायोपेक्षं वा तस्यैव 'नमोकारो'त्ति नमस्कारः क्रियते-हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः। प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं'तित[द्वहुमानस्त ]त्सन्निधावासनं कश्चित्कालमिति, एष तावद्वहिर्देष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदण'ति आरभट्या छोभवन्दनं क्रियते, 'चन्दणं वाऽवि' परिशुद्ध वा वन्दनमिति गाथार्थः ॥ ११२७ ॥ एतच्च वाङ्गमस्कारादि नाविशेषेण क्रियते, किं तर्हि - परियायपरिसपुरिसे वित्तं कालं च आगमं नचा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ।। ११२८ ॥ व्याख्या-पर्यायश्च परिषञ्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान , तथा क्षेत्रं कालं च आगमं 'णञ्चति ज्ञात्वा-विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथायथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यदू 'योग्य' समनुरूपं वाङ्ग मस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥११२८॥ साम्प्रतमवयवार्थ प्रतिपादयन्नाह भाष्यकार: दीप अनुक्रम [९..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | 'छोभवंदन'स्य स्वरुपम् वर्ण्यते ~184
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy