________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११२२], भाष्यं [२०३...],
प्रत
सूत्रांक
||७..||
ज्ञविषयः, 'अहं खु छउमत्थी'त्ति अहं पुनश्छद्मस्था, अतो 'लिङ्गमेव' रजोहरणगोच्छप्रतिग्रहधरणलक्षणं 'पूजयामि' वन्देही इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाकायशुद्धेन मनसेति गाथार्थः ॥ ११२२ ॥ अत्राचार्य आह| जहते लिंग पमाण वंदाही निण्हवे तुमे सब्वे । एए अवंदमाणस्स लिंगमधि अप्पमाणं ते ॥११२३ । । । व्याख्या-'यदी'त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम् , अनुस्वारोऽत्र च लुप्तो वेदितव्यः, प्रमाणकारणं वन्दनकरणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निहवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात् तेषामिति, अर्थतान् मिथ्यादृष्टित्वान्न वन्दसे तत् ननु 'एतान् द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य अप्रणमतः लिङ्ग-1 मप्यप्रमाणं तव बन्दनप्रवृत्ताविति गाथार्थः ॥ ११२३ ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदका
जालिंगमप्पमाणं न नजई निच्छएण को भावो दहण समलिंगं किं कायब्वं तु समणेणं ॥ ११२४॥ । KI व्याख्या यदि 'लिङ्ग' द्रव्यलिङ्गम् 'अप्रमाणम्' अकारण वन्दनप्रवृत्ती, इत्थं तहि 'न ज्ञायते' नावगम्यते 'निश्चयेन',
परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः ?, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कार| णतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्गं साधुलिङ्गं किं पुनः कर्तव्यं श्रमणेन' साधुना , पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोको गाथानुलोम्यादिति गाथार्थः ॥ ११२४ ॥ एवं चोदकेन पृष्टः सन्नाहाचार्य:
अप्पुब्बं दणं अब्भुटाणं तु होइ कायव्वं । साहुम्मि दिछपुब्वे जहारिहं जस्स जं जोग्गं ॥ ११२५ ॥
दीप
अनुक्रम
[९..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~182