SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक |||| दीप अनुक्रम [<] [भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-६], निर्युक्तिः [१०९२], भाष्यं [२०३...] रेणेति गाथार्थः ॥ ६ ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम् अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनैका - थिंकानि प्रतिपादयन्नाह थुइथुणणवंद्णनमंसणाणि एगद्विआणि एयाणि । कित्तण पसंसणावि अ विणयपणामे अ एगट्ठा ॥ १०९२ ।। व्याख्या - स्तुतिः स्तवनं वन्दनं नमस्करणम् एकार्थिकान्येतानि, तथा कीर्तनं प्रशंसेव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ॥ १०९२ ॥ साम्प्रतं यदुक्तम् उत्तमा' इति तद्व्याचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति ॥ १०९३ ।। व्याख्या — मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पश्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकपाया इति, अस्मादेव यतस्त्रिविधतमसः, किम् ? - उन्मुक्ताः - प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः तस्मात्ते भगवन्तः किम् ?, उत्तमाः भवन्ति, ऊर्ध्वं तमोवृत्तेरिति गाथार्थः ॥ १०९३ ॥ साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ 'मित्यादि, अत्र भावार्थमविपरीतमनव गच्छन्नाहआरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दिंतु । किं नु हु निआणमेअं ति?, विभासा इत्थ कार्यव्वा ॥ १०९४॥ व्याख्या - आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं, भावार्थः प्रागुक्त एव तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम्, अत्र काक्वा पृच्छति किं नु हुणियाणमेअं'ति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने, पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः ~152~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy