________________
आगम
[भाग-३०] "आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [२], मूलं I [गाथा-५], नियुक्ति: [१०९१], भाष्यं [२०३...]
(४०)
प्रत सूत्रांक
||५||
व्याख्या-गम्भगएण भगवया णायकुलं विसेसेण धणेण वड्डियाइयं तेण से णाम कथं वद्धमाणेत्ति, गाथार्थ।।१०९१॥ एवमेतावता पन्थेन तिम्रोऽपि मूलसूत्रगाथा व्याख्याता इति ॥ अधुना सूत्रगाथैवएवं मए अभिधुआ विहुयरयमला पहीणजरमरणा । चउचीसपि जिणवरा तित्थयरा मे पसीयंतु ॥५॥
अस्या व्याख्या-'एवम् अनन्तरोक्तेन प्रकारेण 'मए' इत्यात्मनिर्देशमाह, 'अभिष्टुता' इति आभिमुख्येन स्तुता अभिष्टुता: इति, स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ?-'विधूतरजोमला' तत्र रजश्च मलश्च रजोमली विधूती-प्रकम्पिती अनेकार्थत्वाद्धा अपनीती रजोमली यैस्ते तथाविधाः, तत्र बध्यमानं कमें रजो भण्यते पूर्ववद्धं तु मल इति, अथवा बर्द्ध रजः निकाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अत एवं प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-बयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विशतिरपि, अपिशब्दासदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं:-'प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात्-'क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्ते हि । तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव ॥१॥ यो वस्तुतः प्रसीदति रोपमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तश्च सर्वहितदः कथं स भवेत् ॥२॥ तीर्थकरास्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥३॥ शीतार्दितेषु च यथा द्वेष वहिन याति रागं वा। नाऽऽहयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते॥४॥
गर्भगतेन भगवता शाकुलं विशेषेण धनेन वर्धितं तेन तस्स नाम संपर्धमान इति ।
दीप
अनुक्रम
[७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | मूलसूत्रस्य गाथा- ५ एवं तस्या व्याख्या
~150