________________
आगम (४०)
[भाग-३०] "आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [२], मूलं I [गाथा-२], नियुक्ति: [१०७९], भाष्यं [२०३...]
चतुर्विशतिस्तवा. विशेषणसाफल्यं.
प्रत
9-0-80
आवश्यक-3
व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः हारिभ- शुक्ला वलाका इत्यादि(वत्) ऋते प्रयासात् कमर्थ पुष्णातीति, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद्, इह द्रीया केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवयं, न चैकान्ततो|
व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्म॥५०१॥
योगदर्शनात् , तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेष तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूतेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्ष
याऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं लकीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाह
उसभमजिअंच वंदे संभवमभिणंदणं व समईच । पउमप्पहं सुपासं जिणं च चंदप्पर वंदे ॥२॥ सुविहिं। च पुप्फदंतं सीअल सिज्जंस बासुपुजं च । विमलमणतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंधुं अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह बद्धमाणं च ॥ ४ ॥ (सूत्राणि)
एतात्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहाहतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षपातो विशेषलक्षणतश्च
अनुक्रम
25%A4%
9454
॥५०॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | मूलसूत्रस्य गाथा २,३ एवं व्याख्या
~139~