________________
आगम
(४०)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
[भाग-३०] “आवश्यक”– मूलसूत्र - १/३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा - १], निर्युक्तिः [१०७६], भाष्यं [२०३...]
जियकोहमाणमाया जियलोहा तेण ते जिणा हुंति । अरिणो हंता रयं हंता अरिहंता तेण बुचंति ॥ १०७६ ॥ व्याख्या - जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं ?--जिना भवन्ति, 'अरिणो हंता रयं हंतेत्यादिगाथादलं यथा नमस्कारनिर्युक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ १०७६ ॥ कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाह -
कित्तेमि किन्तणिजे सदेवमणुआसुरस्त लोगस्स । दंसणनाणचरिते तबविणओ दंसिओ जेहिं ॥ १०७७ ॥ व्याख्या कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान् स्तवानित्यर्थः, कस्येत्यत्राह सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति- 'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ॥ १०७७ ॥
चडवीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ॥ १०७८ ॥
व्याख्या - चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तम्रहोऽपि वेदितव्य इति गाथार्थः ॥ १०७८ ॥
कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरितनाणी तम्हा ते केवली हुंति ॥ १०७९ ॥
व्याख्या- ' कृत्स्नं' सम्पूर्ण 'केवलकरूप' केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च- "सामध्ये वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥” 'लोक' पश्चास्तिकायात्मकं जानन्ति विशे
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः अरिहंत कीर्तयिष्यामि, चतुर्विंशति, अपि केवलि आदि शब्दानाम् व्याख्या:
~ 136~