________________
आगम
(४०)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
आवश्यकहारिभद्रीया
॥ ४९८ ॥
[भाग-३०] “आवश्यक”– मूलसूत्र - १/३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-१], निर्युक्तिः [१०६६], भाष्यं [२०३...]
द्वितीये तु नियोजितं यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थ, मोक्षासाधकत्वादिति गाथार्थः ॥ १०६६ ॥ भावतीर्थमधिकृत्याह
कोहंमि उ निग्गहिए दाहस्स पसमणं हवइ तत्थं । लोहंमि उ निग्गहिए तण्हाए छेअणं होई ॥। १०६७ ।। व्याख्या - इह भावतीर्थं क्रोधादिनिग्रहसमर्थं प्रवचनमेव गृह्यते, तथा चाह- क्रोध एव निगृहीते 'दाहस्य' द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं नान्यथा, लोभ एव निगृहीते सति, किं ?-'तण्हाए छेअणं होई'त्ति तृषःअभिष्वङ्गलक्षणायाः किं ?-'छेदनं भवति' व्यपगमो भवतीति गाथार्थः ॥ १०६७ ॥
अविहं कम्मरयं बहुएहि भवेहिं संचिअं जम्हा । तवसंजमेण धुव्वह तम्हा तं भावओ तित्थं ॥ १०६८ ।
व्याख्या – 'अष्टविधम्' अष्टप्रकारं, किं ? 'कर्मरजः' कर्मैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सञ्चितं यस्मातपःसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः ॥ १०६८ ।। दंसणनाणचरितेसु निउत्तं जिणवरेहि सव्वेहिं । तिसु अत्थेसु निउन्तं तम्हा तं भावओ तित्थं ॥ १०६९ ॥
व्याख्या - दर्शन ज्ञानचारित्रेषु नियुक्त' नियोजितं 'जिनवरैः' तीर्थकृद्भिः 'सर्वैः' ऋषभादिभिरिति यस्माच्चेत्थम्भूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः ॥ १०६९ ।। उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा
२चतुर्वि शतिस्तवा
ध्यतीर्थनिक्षेपः
~ 133 ~
||४९८॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः