________________
आगम
(४०)
प्रत सूत्रांक
[..]
दीप
अनुक्रम
[R..]
[भाग-३०] “आवश्यक” - मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [२...] / [गाथा - ], निर्युक्ति: [१०५६], भाष्यं [१९१]
नामं ठषणा दविए भावे अ धयस्स होइ निक्खेबो । दव्वथओ पुप्फाई संतगुणुकिराणा भावे ॥१९१॥ (भा०) व्याख्या -- तत्र 'नामे'ति नामस्तवः 'स्थापने'ति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयोः द्रव्यस्तवः, 'भावे चे 'ति भावविषयश्च भावस्तव इत्यर्थः इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनाहत्य द्रव्यस्तव भावस्तवस्वरूपमेवाह - 'द्रव्यस्तवः पुष्पादि रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणोत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना- संशब्दना यथा - " प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयम् । समत्रैरपि नो नाथ !, परतीर्थाधिपैस्तथा ॥ १ ॥ विद्योतयति वा लोकं, यथेकोऽपि निशाकरः । समुद्गतः समग्रोऽपि किं तथा तारकागणः १ ॥ २ ॥ इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तव इति गाथार्थः ॥ १९१ ।। इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च- 'कत्थर पुच्छइ सीसो कहिंचऽपुट्ठा कहति आयरिया इत्यादि, यतश्चात्र वित्तपरित्यागा| दिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्युदासार्थं तदनुवादपुरस्सरमाह-| दव्वधओ भावथओ दव्वथओ बहुगुणत्ति बुद्धि सिआ । अनिउणमइवयणमिणं छज्जीवहि जिणा विंति ॥१९२॥ व्याख्या -- द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो 'बहुगुणः' प्रभूततरगुण 'इति' एवं बुद्धिः स्याद् एवं चेत् मन्यसे १ कचित्पृच्छति शिष्यः कुत्रचिदष्टाः कथयाचार्याः
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 120~