________________
आगम
(४०)
प्रत सूत्रांक
[..]
दीप
अनुक्रम [R..]
•
[भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [२...] / [गाथा - ], निर्युक्ति: [ १०५५ ], भाष्यं [१८९...]
अथ विदिशतिस्तवाख्यं द्वितीयमध्ययनम्.
साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणांऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते तच्चेदम्--जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यक श्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च स च अध्ययन समुदायरूपो वर्तते यत उक्तम्- 'ऐतो एकेक पुण, अज्झयणं कि इस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम्, इदानीं द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद् उक्तं च- 'सावज्जजोगविरई उत्तिणे त्यादि, अतो द्वितीयमुपदर्श्यते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणा झावयवानि ददर्यन्ते एवमत्रापि श्रुतस्कन्ध पुरुषस्येति कारणम्, | इदमेव चोद्देशसूत्रेष्वपि योजनीयम्, इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्य विस्तरेण । सम्बन्ध उच्यते अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने सावद्ययोगविरर्तिलक्षणं सामायिकमुपदिष्टम्, इह तु तदुपदेष्टुणामतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्त निरुक्तिद्वारे'सम्मद्दिहि अमोहो सोही सम्भाव दंसणं बोही । अविषजओ सुदिट्ठित्ति एवमाई निरुत्ताई ॥ १ ॥ति, इहापि चतुर्विंशतिस्तवे ऽर्ह गुणोत्कीर्तन रूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च - 'भंतीऍ जिणवराणं खिज्जती पुवसंचिया
३ अतोऽनन्तरमेकैकं पुनरध्ययनं कीर्तयिष्यामि । २ उपदश्यते इत्यनेन संबन्धः ३ सावद्ययोगविरतिरुकीर्त्तनं भवान्तरावयवभूतेषु ५ सम्यग्दृष्टिरमोहः शोधिः सानो दर्शनं बोधिः । अविपर्ययः सुदृष्टिरिति एवमादीनि निरुक्तानि ॥ १ ॥ ६ कर्मक्षयः, ७ भक्तेर्जिवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः अत्र अध्ययनं -२- 'चतुर्विंशतिः' आरभ्यते
~118~