SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४१८], भाष्यं [४३...], उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं। तीर्थकरोकानुवादः, सर्वत्र भविष्यकालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्--'मघवा सणंकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ॥ द्वितीयगाथागमनिका-शान्तिः कुन्धुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीत्यर्हन्तश्चैव चक्रवर्त्तिनश्च, तथा अरमहयन्तरे तु भवति सुभूमश्च कौरव्या,तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः॥ तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, की द्वो?, पद्मनाभहरिषेणी 'नमिनेमिसु जयनामो अरिङपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिना, अन्तरग्रहणमभिसंवध्यते, ततश्च नमिनेम्यन्तरे जयनामाVIऽभवत्, अरिष्टग्रहणादू अरिष्टनेमिः, पाति पार्थस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवति गाथार्थः। ॥ ४१६-४१७-४१८ ॥ इदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते पंचरहते वदंति केसवा पंच आणुपुब्वीए । सिजंस तिविहाई धम्म पुरिससीहपेरता ॥ ४१९ ॥ अरमल्लिअंतरे दुपिण केसवा पुरिसपुंडरिअदत्ता । मुणिमुव्वयनमिअंतरि नारायण कण्हु नेमिमि ॥ ४२० ॥ गमनिका-पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति-पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यवक्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः किमेकः द्वौ त्रयो वा?, नेत्याह-पंच' पश्चेति पश्चैव, किं यथाकथञ्चित् । wwwwsaneiorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~341
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy