________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्तिः [१०९], भाष्यं [-]
ते तथाविधाः तेषामुदये सति किम् - सम्यग्दर्शनलाभ, भव्या लभन्ते इति शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्ती सा तथोच्यते, देशविरतिरित्यर्थः तां विश्ताविरतिं नतु लभन्ते, खुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः ॥ १०९ ॥ तइयकसायाद पञ्चक्खाणावरणनामधिजाणं । देसिकदेसविरहं चरित्तलंभं न उ उर्हति ॥ ११० ॥
व्याख्या — सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, 'कपायाः' पूर्ववत्, तृतीयाश्च ते कपायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत् किंविशिष्टानां ? - आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, नञा प्रतिषिद्धत्वात् इहापिच आवरणशब्देन प्रत्याख्यानप्रतिबेधात् क एषां प्रतिविशेष इति उच्यते, तत्र न सर्वनिषेधवचनो वर्त्तते, इह पुनः आङने मर्यादेपदर्थवचनत्वात् ईपन्मर्यादया वाssवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्त्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशी, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरतिः- निवृत्तिः तां लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्र' इति 'घर गतिभक्षणयो' रिति, अस्य 'अर्त्तिलूधूसूख निसहिचर इत्रः' (पा.३-२-१८४ ) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति इहान्यजन्मोपात्ता
Educatin itemational
For Only
www.g
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 165~