________________
आगम
(१८)
प्रत
सूत्रांक
[११६]
दीप
अनुक्रम
[२२८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [११६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
'श्रीजम्बूद्वीपशान्तिचन्द्री
या वृत्तिः
॥४०० ॥
उपरिभागः पद्मलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः द्वितीययावच्छन्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्रं | दृश्यते परं बहुष्वेतत्सूत्रादर्शेषु अदृष्टत्वान्न लिखितं, अधात्र मणिपीठिकावर्णनायाह-- ' तस्स ण' मित्यादि, व्यक्तं, 'तीए उपरिं' इत्यादि एतद्व्याख्या विजयद्वारस्थप्रकण्ठकप्रासादगतसिंहासनसूत्रबदवसेया । 'ते ण'मित्यादि, इदं | सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो वोध्यं, अत्र प्रथमयावत्पदात् 'बेइजमाणा २ पलम्बमाणा २ पझंझमाणा २ ओरालेणं मणुष्णेणं मणहरेणं कण्णमण' इति संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं, सम्प्रति अत्रास्थान निवेशनप्रक्रियामाह - 'तस्स ण'मित्यादि, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्त्तिनोऽपरोतरायां-वायव्यामुत्तरस्यां उत्तरपूर्वायां-ऐशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि उक्तदित्रये चतुरशीतिभद्रासन सहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्र महिषीणामष्ट भद्रासनानि, एवं दक्षिणपूवयां-अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासन सहस्राणि दक्षिणस्यां मध्यमायाः पर्षदश्चतुर्द्दशानां देवसहस्राणां चतुर्दश भद्रासन सहस्राणि दक्षिणपश्चिमायां नैर्ऋतकोणे बाह्यपर्षदः पोडशानां देवसहस्राणां पोडश भद्रासन सहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति, 'तए ण' मित्यादि, 'ततः' प्रथमवलयस्थापनानन्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां चतुर्गुणीकृत चतुरशीतिसंख्याकानां
For P&Praise City
~46~
५वक्षस्कारे जन्ममहे यान विमानं सू. १९६
॥४०० ॥