________________
आगम
(१८)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम
[२२७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [११५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्विचन्द्री - या वृत्तिः
॥३९७॥
कारात्, तयूयमपि देवानुप्रियाः ! सर्व सर्वद्युत्या सर्वत्रलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटित| शब्दसन्निनादेन महत्या ऋज्या यावद्रवेण अत्राभ्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवारसपरिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि शिविकादीन्यारूढाः सन्तोऽकालपरिहीणं-निर्वि लम्बं यथा स्यात्तथा चैवोऽवधारणे शक्रस्य यावत्करणात् देवेन्द्रस्य देवराज्ञः इति पदद्वयं ग्राह्यं अन्तिकं - समीपं प्रादुर्भवत, अथ स्वाम्यादेशानन्तरं हरिणेगमेषी यदकरोत् तदाह- 'तए णं से हरिणेगमेसी' इत्यादि, ततः स हरिणेगमेषी देवः पदात्यनीकाधिपतिः शक्रेण देवेन्द्रेण देवराशा एवमुक्तः सन् हृष्ट इत्यादि यावदेवं देव इति आज्ञया विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव सभायां सुधर्मायां मेघौघर सितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घण्टा तत्रैवोपागच्छति उपागत्य च तां मेघौघरसितगम्भीरमधुरतरशब्दां योजनपरिमण्डला सुघोषां घण्टां त्रिकृत्व उल्लालयतीति, उल्हालनानन्तरं यदजायत तदाह- 'तए णं तीसे मेघोघरसि अगम्भीरम हरयर' इत्यादि, ततः उल्लालनानन्तरं तस्यां मेघौघरसितगम्भीरमधुरतर शब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशत् विमानरूपा ये आवासा - देववासस्थानानि तेषां शतसहस्रेषु, अत्र सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि यमकसमकं - युगपत् कणकणारावं कर्त्तुं प्रवृत्तान्यप्यभवन, अत्रापिशब्दो भिन्नक्रमत्वात् घण्टाशतसहस्राण्यपि इत्येवं
For P&Praise Cly
~40~
वक्षस्कारे
इन्द्रकृत्ये
पालकविमानं यू. ११५
॥३९७॥