________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], ------------- दारं -,-------------- मूलं [२९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२९४]
उत्कर्षतस्त्रिंशत्सागरोपमकोटीकोट्यः, सा च मिथ्यादृष्टेरुत्कृष्टे सङ्केशे वर्तमानस्यावसातव्या, तदेवं नियता प्रागुक्तस्य प्रश्नोत्तरसिद्धिः, इदमपृष्टव्याकरणं त्रीणि वर्षसहस्राणि अवाधा अबाधोना कर्मस्थितिः कर्मदलिकनिषेक इति, किमर्थमिति चेत्, उच्यते, स्थितिद्वैविध्यप्रदर्शनार्थ, तथाहि-द्विविधा स्थितिः-कर्मरूपतावस्थानलक्षणा अनुभवयो
ग्या च, तत्र कर्मरूपताऽवस्थानलक्षणां स्थितिमधिकृत्येदमुक्तं त्रिंशत्सागरोपमकोटाकोटय इति, अनुभवयोग्या च Mवर्षसहस्रत्रयोना यतः, आह च-'त्रीणि वर्षसहस्राणि अवाधा' किमुक्तं भवति ?-ज्ञानावरणीयं कर्म उत्कृष्टस्थितिके बद्धं सत् बन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावत् न किञ्चिदपि खोदयतो जीवस्य बाधामुत्पादयति, तावकालमध्ये दलिकनिषेकस्याभावात् , सत ऊवं हि दलिकनिषेकः, तथा चाह-अबाधोना-अबाधाकालपरिहीना अनुभवयोग्या कर्मस्थितिः, किमुक्तं भवति ?-कर्मनिषेकः, स चैवं-प्रथमस्थिती प्रभूतो द्वितीयस्थिती विशेषहीनः तृतीयस्थिती विशेषहीनः एवं विशेषहीनो विशेषहीनश्च तावद् वक्तव्यो यावत्स्थितिचरमसमयः, एतावता च यदुतमग्रायणीयाख्ये द्वितीयपूर्व कर्मप्रकृतिप्राभृते बन्धविधाने स्थितिबन्धाधिकारे-"चत्वायनुयोगद्वाराणि, तद्यथास्थितिबन्धस्थानप्ररूपणा अबाधाकण्डकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा अल्पबहुत्वप्ररूपणा चे"ति, तत्रोत्कृष्टाऽवा-| धाकण्डकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा च दर्शिता भवति, अवाधाकालपरिज्ञानोपायश्चार्य-यस्य यावत्यः सागरोपमकोटीकोट्यस्तस्य तावन्ति वर्षशतान्यबाधा, यस्य पुनः सागरोपमकोटीकोट्या मध्ये स्थितिस्तस्यायुर्वर्जस्यान्तर्मु-1||
दीप अनुक्रम [५४१]
~64~