________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], ------------- दारं [-], -------------- मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९३]
यदुदयाजन्तुशरीराण्यनुष्णप्रकाशकरूपमुद्योतं कुर्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रनक्षत्रतारविमानरत्नौषधयस्तदु-11 द्योतनाम, तथा विहायसा गतिः-गमनं विहायोगतिः, ननु सर्वगतत्वात् विहायसस्ततोऽन्यत्र गतिर्न सम्भवतीति किमर्थ विशेषणं?, व्यवच्छेद्याभावात् , सत्यमेतत् , किन्तु यदि गतिरेवोच्यते ततो नानः प्रथमप्रकृतिरपि गतिरस्ती-1 ति पौनरुत्याशङ्का स्थात् , अतस्तव्यवच्छेदार्थ विहायसा गतिः, न तु नारकादिपर्यायपरिणतिरूपेति विहायोगतिः, सा द्विविधा-प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता हंसगजवृषभादीनां अप्रशस्ता खरोष्ट्रमहिषादीनां, तद्विपाकवेद्यं विहायोगतिनामकर्म द्विधा-प्रशस्त विहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति, तथा प्रसन्ति-उ-N
प्णाधभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति प्रसा-दीन्द्रियादIS यस्तत्पर्यायपरिणतिवेद्यं नामकर्मापि त्रसनाम, तथा यदुदयादुष्णाद्यमितापेऽपि तत्स्थानपरिहारासमर्थाः पृथिव्यप्ते
जोवायुवनस्पतयः स्थावरा जायन्ते तत् स्थावरनाम, तथा बादरनाम यदुदयाज्जीया बादरा भवन्ति, बादरत्वं परिSणामविशेषः, यदशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुधित्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति,
तद्विपरीतं सूक्ष्मनाम, यदुदयावहूनामपि समुदितानां जन्तुशरीराणां चक्षुशता न भवति, उक्तं च श्रावकप्रज्ञप्तिमूलटीकायां-"सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति, असन्तसूक्ष्मोऽतीन्द्रिय इत्यर्थः” इति, पर्याप्तकनाम यदुदयात् । खयोग्यपर्याप्सिनिर्वर्तनसमर्थो भवति तत्पर्यासिनाम-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,
दीप अनुक्रम [५४०]
~54~