SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९३] दीप अनुक्रम [ ५४० ] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) - पदं [२३], -------------- • उद्देशक: [२], ---------दारं [-], [---- • मूलं [ २९३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना या मल ॥४७२ ॥ तद्यथा-वजर्षभनाराचं ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवा च तत्र वज्रं कीलिका ऋषभः परि ६ वेष्टनपट्टः नाराचं- उभयतो मर्कटबन्धः, उक्तं च- "रिसहो य होइ पट्टो वज्रं पुण कीलिया मुणेयचा । उभओ य० वृत्तौ ४ मक्कडबंधो नारायं तं वियाणाहि ॥ १ ॥ [ ऋषभश्च भवति पट्टो वज्रं पुनः कीलिका ज्ञातव्या । उभयतो मर्कटबन्धो यस्तं नाराचं विजानीहि ॥ १ ॥ ] ततश्च द्वयोरस्नोरुभयतो मर्कटबन्धनबद्धयोः पट्टाकृतिना तृतीयेनास्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वज्रर्षभनाराचसंहननं, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं, यत्र त्वस्थ्नां मर्कटबन्ध एव केवलो भवति तत्संहननं नाराचं, यत्र त्वेकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वे च कीलिका तदर्द्धनाराचसंहननं, यत्रास्थीनि कीलिकामाबद्धान्येव भवन्ति तत्संहननं कीलिकाख्यं यत्र पुनः परस्परपर्यन्तमात्र संस्पर्शलक्षणां सेवामागतानि अस्थीनि नित्यमेव सेहाभ्यङ्गादिरूपां परिशीलनामाकाङ्क्षन्ति तत्सेवार्त्तसंहननं, एतन्निबन्धनं संहनननामापि षोढा, तद्यथा-वर्जर्षेभनाराच संहनननाम ऋषभनाराचनाम नाराचनाम अर्द्धनाराचनाम कीलिकानाम सेवार्त्तनाम, तत्र यदुदयात् वज्रर्षभनाराचसंहननं भवति तत् वज्रर्षभनाराचसंहनननाम, एवं शेषसंहनननामखपि भावनीयं, तथा संस्थानं-आकारविशेषस्तेष्वेव गृहीतसङ्घातितबद्धेषु औदारिकादिषु पुगलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत्संस्थानं, एतच्च पोढा, तद्यथा-समचतुर| ससंस्थाननाम न्यग्रोधपरिमण्डलसंस्थाननाम सादिसंस्थाननाम वामनसंस्थाननाम कुब्जसंस्थाननाम हुण्डसंस्थान Eticatur For Penal Use Only ~51~ २३ कर्मप्रकृतिपदं ॥४७२॥
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy