________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशकः [२], ------------- दारं -], -------------- मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९३]
मापि पुरुषवेदः, नपुंसकस्य वेदो नपुंसकवेदः, नपुंसकस्य स्त्रियं पुरुषं च प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि। नपुंसकवेदः, तथा यदुदयात् सनिमित्तमनिमित्तं वा हसति स्म हासयते वा तत् हास्यमोहनीयं, यदुदयाद्बाथाभ्यन्तरेषु वस्तुपु प्रमोदमाघत्ते तत् रतिमोहनीयं, यदुदयवशात् पुनर्वाह्याभ्यन्तरेषु वस्तुपु अग्रीतिं करोति तदरतिमोहनीयं, यदुदयात् प्रियविप्रयोगादौ सोरस्ताडमाक्रन्दति परिदेवते भूपीठे च लुठति दीर्घ च निःश्वसिति तत् शोकमोहनीयं, यदुदयवशात् सनिमित्तमनिमित्तं वा तथारूपस्वसङ्कल्पतो बिभेति तद्भयमोहनीयं, यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत् जुगुप्सामोहनीयं, जुगुप्साजनकं मोहनीयं जुगुप्सामोहनीय, एवं सर्वपदेध्वपि विग्रहो भावनीयः, नोकषायता चामीषां हास्यादीनां कषायसहचारित्वात् , कैः कषायैः सहचारितेति चेत्, उच्यते, आद्यैादशभिः, तथाहि-नायेषु द्वादशकषायेषु क्षीणेषु हास्यादीनामवस्थानसम्भवस्तदनन्तरमेव तेषामपि क्षपणाय प्रवृत्तिः, अथवा पते प्रादुर्भवन्तोऽवश्यं कषायादीनुद्दीपयन्ति ततः कषायसहचारिणः, एवं नोशब्दः साह|चर्ये द्रष्टव्यः, कषायैः सहचारिणो नोकपाया इति, उक्तं च-"कपायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥१॥" आयुःकर्मसूत्रं पाठसिद्धं, नामकर्म द्विचत्वारिंशद्विधं, तानेव द्वाचत्वारिंशतं भेदानाह-'गतिनामे'त्यादि, गम्यते-तथाविधकर्मसचिवैः प्राप्यते इति गतिः-नारकत्वादिपर्यायपरिणतिः, सा. चतुर्धा, तद्यथा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिस्तजनकं नाम गतिनाम, तदपि चतुर्की, 'नरकगतिनामें-18
दीप अनुक्रम [५४०]
EFERENCSee
For P
OW
~44