SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशकः [२], ------------- दारं -], -------------- मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२९३] वृत्तिगम्यं शुभारमपरिणामरूपं तन्मोहयतीति चारित्रमोहनीयं, चशब्दी खगतानेकभेदसूचकी, दर्शनमोहनीयं । त्रिविध, तद्यथा-सम्यक्त्ववेदनीयं मिथ्यात्ववेदनीयं मिश्रवेदनीयं, तत्र जिनप्रणीततत्त्वश्रद्धानात्मकेन सम्यक्त्वरूपेण यवेद्यते तत्सम्यक्त्ववेदनीयं, यत्पुनर्जिनप्रणीततत्त्वाश्रद्धानात्मकेन मिथ्यात्वरूपेण वेद्यते तन्मिध्यात्ववेदनीयं. यत्तु मिश्ररूपेण-जिनप्रणीततत्त्वेषु न श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते तन्मिश्रवेदनीयं, आह-सम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं ?, न हि तद्दर्शनं मोहयति, तस्य प्रशमादिपरिणामहेतुत्वात् , उच्यते, इह सम्यक्त्ववेदनीयं मिथ्यात्वप्रकृतिः, ततोऽतिचारसम्भवात् , औपशमिकक्षायिकदर्शनमोहनाचेदं दर्शनमोहनीयमित्युच्यते, चारित्रS मोहनीयं द्विविधं-कषायवेदनीयं नोकषायवेदनीयं च, तत्र यत्क्रोधादिकषायरूपेण वेद्यते तत्कषायवेदनीय, यत्पुनः स्त्रीवेदादिनोकषायरूपेण वेद्यते तन्नोकषायवेदनीयं, चशब्दी खगतानेकभेदसूचकौ, तत्र कषायवेदनीयं षोडशविध, क्रोधमानमायालोमानां प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपत्वात् , तत्रानन्तं संसारमनुबधन्तीत्येवंशीला अनन्तानुबन्धिनः, उक्तं च-"अनन्तान्यनुवमन्ति, यतो जन्मानि भूतये । ततोऽनन्तानुबन्धाख्या, क्रोधायेषु नियोजिता ॥१॥" एषां संयोजना इति द्वितीयमपि नाम, तत्रायमन्वर्थः-संयुज्यन्ते-सम्बध्यन्तेऽनन्तसङ्खयैभवर्जन्तवो येस्ते संयोजनाः, उक्तं च-'संयोजयन्ति यन्नरमनन्तसङ्घर्भवैः कषायास्ते । संयोजनताउनन्तानुवन्धिता याप्यतस्तेषाम् ॥१॥" सर्व प्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्या दीप अनुक्रम [५४०] 298203 टएर ~ 42~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy