SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३४८] दीप अनुक्रम [६२०] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - मूलं [ ३४८ ] पदं [३६], --------------उद्देशक: [-1, ------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः निष्ठितार्थो भवति १, स च 'वर्त्तमानसामीप्ये वर्त्तमानवद्वेति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते तत आहबुध्यते - अवगच्छति केवलज्ञानेन यथाऽहं निश्वयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत आहमुच्यतेऽशेषकर्माशैरिति गम्यते, सुज्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह-परिनिर्वाति सामस्त्येन शीतीभवति, समस्तमेतदेकेन पर्यायेण स्पष्टयति - सर्वदुःखानामन्तं करोतीति, भगवानाह - गौतम ! नायमर्थः समर्थी - नायमर्थः सङ्गतो यः समुद्घातं गतः सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोतीत्यत आह- 'से णमित्यादि, सःअधिकृतसमुद्घातगतः णमिति वाक्यालङ्कारे ततः समुद्घातात् प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः --प्रतिनिवर्त्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेष्वचिन्त्यमाहात्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वप्यन्तर्मुहूर्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं या, मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वाकूपुद्गलान् गृहीत्वा वाग्योगं तमपि सत्यमसत्यामृषा वा न शेषान् वाग्मनसोर्योगान्, क्षीणरागादित्वात्, | आगमनादौ चौदारिकादिकाययोगं, तथाहि —भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने आगच्छेत्, For Parts Only ------ ~318~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy