SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३४२] दीप अनुक्रम [६१२] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [ ३४२ ] पदं [३६], --------------उद्देशक: [-1, -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना या मल य०वृत्ती. ॥५९१ ॥ समवहत्य च यान् पुद्गलान् वेदनायोग्यान् खशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करोतीत्यर्थः, 'तेहि ण' मिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमपान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यवहारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्ट-प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह - 'सरीरे 'त्यादि नियमात् नियमेन छहिसिं'ति पद्ध दिशो यत्रापूरणे स्पर्शने वा पदिक तथथा भवति एवं विष्कम्भतो- विस्तरेण बाहल्यतः - पिण्डतः शरीरप्रमाणमात्रं यावत्प्रमाणः खशरीरस्य विष्कम्भो यावत्प्रमाणं च बाहल्यं एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह - 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात्, वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्था - नवर्त्तित्वात् तेषां, किन्तु त्रसनाढ्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च पदिकसम्भव इति नियमाच्छदिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि' मित्याद्युध्येत, अथ खशरीरप्रमाणविष्कम्भवाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतौ जीवस्य गतिमधिकृत्य कियद्दूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह- 'से णं भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात् तत् — अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भद न्त ! क्षेत्रं कालस्स इति प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्ण कियता कालेन स्पृष्टं, किमुक्तं भवति :-कियन्तं कालं यावत् स्वशरीरप्रमाणविष्कम्भवाहल्यं क्षेत्रं निरन्तरं विग्रहगती जीवस्य गतिमधिकृत्यापूर्ण स्पृष्टं च Education Internationa For Penal Use On ----- ~289~ ३६ समु दुद्घातपदे समुद्धातपुद्गलपूरणादि सु ३४२ ॥५९१॥
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy