________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [२९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२९२]
दीप अनुक्रम [५३९]
तन्निवर्तनमित्युच्यते, तथा जीवेन परिणामितस्य-विशेषप्रत्ययः प्रद्वेषनिहवादिभिस्तं तमुत्तरोत्तरं परिणाम प्रापितस्य, खयं वा विपाकप्राप्ततया परनिरपेक्षमुदीर्णस्य-उदयप्राप्तस्य परेण वा उदीरितस्य-उदयमुपनीतस्य तदुभयेन-खपररूपेणोभयेन उदीर्यमाणस्य-उदयमुपनीयमानस्य गति प्राप्य किञ्चिद्धि कर्म काश्चिद् गति प्राप्य तीब्रा-11 |नुभावं भवति, यथा नरकगति प्राप्यासातवेदनीय, असातोदयो हि यथा नारकाणां तीत्रो भवति न तथा तिर्यगादीनामिति, तथा स्थिति प्राप्य सर्वोत्कृष्टामिति शेषः, सर्वोत्कृष्ट हि स्थितिमुपगतमशुभं कर्म तीत्रानुभावं भवति, यथा मिथ्यात्वं भवं प्राप्य, इह किमपि कर्म कश्चिद्भवमाश्रित्य स्खविपाकदर्शनसमर्थ यथा निद्रा मनुष्यभवं तिर्य
भयं वा प्राप्य ततो भवं प्राप्येत्युक्तं, एतावता किल स्वत उदयस्य कारणानि दर्शितानि, कर्म हि तां तां गतिं स्थितिं भवं वा प्राप्य खयमुदयमागच्छतीति, सम्प्रति परत उदयमाह-पुद्गलं काष्ठलेष्णुखशादिलक्षणं प्राप्य, तथाहिपरेण क्षिसं काष्ठलेष्टुखहादिकमासाद्य भवत्यसातवेदनीयक्रोधादीनामुदयः, तथा पुद्गलपरिणाम प्राप्य-इह किश्चिस्कर्म कमपि पुद्गलमाश्रित्य विपाकमायाति, यथाऽभ्यवहृतस्याहारस्थाजीर्णत्वपरिणाममाश्रित्य असातवेदनीयं ज्ञानावरणीयं सुरापानमिति, ततः पुद्गलपरिणाम प्राप्येत्युक्तं, कतिविधोऽनुभावः प्रज्ञप्त इत्येष प्रश्नः, अत्र निर्वचनंदशविधोऽनुभावः प्रज्ञप्तः, तदेव दशविधमनुभावं दर्शयति-'सोयावरणे' इत्यादि, इह श्रोत्रशब्देन श्रोत्रेन्द्रियविषयः क्षयोपशमः परिगृखते 'सोयविण्णाणावरणे' इति श्रोत्रविज्ञानशब्देन श्रोत्रेन्द्रियोपयोगो, यत्तु निर्यच्युपकरणलक्षणं
~26~