________________
आगम
(१५)
प्रत
सूत्रांक
[३१८]
दीप
अनुक्रम [५८१]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [३३], --------------उद्देशक: [-1, -------------- दारं [-], मूलं [३१८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
चिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि असङ्ख्येयानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि, तस्यैवैतावद्विषयसम्भवात् एतत्सामर्थ्य मात्रमुपवर्ण्यते, यद्येतावति क्षेत्रे द्रष्टव्यं भवति तर्हि पश्यति यावता तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात्, रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो — यावदद्यापि परिपूर्ण लोकं पश्यति तावदिह स्कन्धानेव पश्यति यदा पुनरलोकेऽपि प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति यावदन्ते परमाणुमपि, उक्तं च- " सामत्थमेत्तमुत्तं दट्ठवं जइ हवेज पेच्छेजा । न उ तं तत्थत्थि जओ सो रुविनिबंधणो भणिओ ॥ १ ॥ तो पुण वाहिँ लोगत्थं चेव पासई दबं । सुडुमयरं सुदुमयरं परमोही जाव परमाणुं ॥ २ ॥" [ सामर्थ्यमात्रमुक्तं द्रष्टव्यं यदि भवेत् प्रेक्षेत नतु तत्तत्रास्ति यतः स रूपिनिबन्धनो भणितः ॥ १ ॥ वर्धमानः पुनर्वहिर्लोकस्वमेव पश्यति द्रव्यं । सूक्ष्मतरं सूक्ष्मतरं | परमावधिवत् परमाणु ॥ २ ॥ ] इत्थंभूतपरमावधिकलितश्च नियमादन्तर्मुहूर्त्तेन केवलालोकलक्ष्मीमालिङ्गति, यत उक्तं- "परमोहीनाणविक केवलमंतो मुहुत्तमेत्तेणं" [ परमावधिज्ञानविदः केवलमन्तर्मुहूर्त्तमात्रेण ] इति, वैमानिकानां यजघन्यपदे अङ्गुलायेयभागप्रमाणं क्षेत्रं उक्तं तत्र पर आह - नम्बङ्गुलासङ्ख्ये य भागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्येव न शेषेषु, यत आह भाष्यकृत् स्वकृतटीकायाम् - "उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु शेषाणां मध्यम एवेति" तत्कथमिह सर्वजघन्य उक्तः १,
Educatin internation
For Parts Only
------
~188~
yor