________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३३], --------------उद्देशक: -, ------------- दारं -1, -------------- मूलं [३१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३१७]
या मलयवृत्ती. ॥५३९॥
गाथा
चशब्दी खगतानेकभेदसूचकी, तत्र तु यो येषां भवति तं तेषामुपदर्शयति-'दोह'मित्यादि, द्वयोर्जीवसमूहयोर्भवप्रत्ययका, तद्यथा-देवानां च नारकाणां च, देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाचतुर्विधाः, नारका रत्नप्र- धिपदं. भादिपृथिवीभेदात् ससविधाः, चशब्दी प्रत्येक खगतानेकभेदसूचकी, ते चानेकदा विषयसंस्थानचिन्तायामने खयमेव सूत्रकृतैवोपदर्शयिष्यन्ते, आह-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवस्त्वौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते !, नैष दोषो, यतस्तदपि परमार्थतः क्षायोपशमिकमेव, केवलं स क्षयोपशमो देवनारकभवेष्ववश्यंभावी पक्षिणां गगनगमनलब्धिरिव ततो भवप्रत्ययमिति व्यपदिश्यते, आह च नन्ध-IN ध्ययनचूर्णिकृत्-"नणु ओही खओवसमिओ चेव नारगादिभवो से उदइए भावे तओ कहं भवपचइओ भषणइ , | उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओक्समो देवनारगमवेस अपस्सं भवइ, को दिट्टतो -पक्खीण। आगासगमणे च, तमोभवपचइओ भण्णइत्ति, तथा द्वयोः क्षायोपशमिकस्तद्यथा-मनुष्याणां च पञ्चेन्द्रियतियेग्योनिजातानां च, अत्रापि चशब्दी प्रत्येक खगतानेकभेदसूचकी, मनुष्याणां तिर्यक्रपञ्चेन्द्रियतिरश्चां चावधिज्ञानं नावश्यंभावि ततः सामान्येऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञान क्षायोपशमिकमेवेति । तदेवमुक्तो भेदः, सम्प्रति विषयप्रतिपादनार्थमाह
॥५३९॥ नेरइया णं भंते ! केवइयं खे ओहिणा जाणंति पासंति, गो! जह० अगाउयं उको० चचारि गाउयाई ओहिणा
दीप अनुक्रम [५७९-५८०]
~185