SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३२], --------------उद्देशक: -, ------------- दारं -1, -------------- मूलं [३१६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३१६]] प्रज्ञापना- याः मलयवृत्ती. ॥५३५॥ गाथा चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, ततः संयतादिपर्यायो योगाश्रयः, सिद्धाथ ३२संयमभगवन्तो योगातीताः शरीरमनसोऽभावादतत्रितयप्रतिषेधविषयाः, एवं च सामान्यतो जीवपदे चतुष्टयमपि घटते, पदं सू. तथा चाह-'गोयमे'सादि, गौतम ! जीवाः संयता अपि साधूनां संयतत्वात् , असंयता अपि नैरयिकादीनामसंयतत्वात् , संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतः संयमस्य भावात् , नोसंयतनोअसंयतनोसंयतासंयता अपि सिद्धानां त्रयस्यापि प्रतिषेधात् , चतुर्विंशतिदण्डकसूत्राणि सुगमानि, अत्रैवं सङ्ग्रहणिगाथामाह-संयते'त्यादि, संयता असंयता मिश्रकाश्व-संयतासंयता जीवास्तथैव मनुष्याश्च, किमुक्तं भवति ?-जीवपदे मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते, नतु न घटन्ते इत्येवंपरमेतत् सूत्र, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदं घटत एव, यथोक्तं प्राक्, तथा संयतरहिता उपलक्षणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यञ्चः-तिर्यपञ्चेन्द्रियाः, आह-कथं संयतपदरहितास्तिर्यपञ्चेन्द्रियाः, यावता तेषामपि संयतत्वमुपपद्यते एच. तथाहि-संयतत्वं नाम निरविद्येतरयोगप्रवृत्तिनिवृत्त्यात्मकं, ते च निरवद्येतरयोगेषु प्रवृत्तिनिवृत्ती तिरश्चामपि सम्भवतः, यतश्चरमकालेऽपि चतु विधस्याप्याहारस्थ प्रत्याख्यानं कृत्वा शुभेपु योगेषु वर्तमाना दृश्यन्ते, अन्यच सिद्धान्ते तत्र तत्र प्रदेशे महानतान्यायारात्मन्यारोपयन्तः श्रूयन्ते, उक्तं च-"तिरियाणं चारित्तं निवारितं तह य अह पुणो तेर्सि । सुबह बहुयाणं चिय मह-1 ॥५३॥ यारोवणं समए ॥१॥" [तिरश्चां चारित्रं निवारितं तथा च पुनस्तेषां श्रूयतेऽथ महावतारोपणं बहूनां समय॥१॥ दीप अनुक्रम [५७७ -५७८] ~177~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy