________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२९], -------------- उद्देशक: -,------------- दारं --------------- मूलं [३१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१२]
ब्दोऽधःशब्दार्थः, अब-अधो विस्तृत वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः-मर्यादा रूपिण्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं, तथा परिः-सर्वतो, भावे अयनं अवः, 'तुदादिभ्योऽनका वित्यधिकारे 'अकिती चे'त्यकारप्रत्ययः, अवनं गमनमिति पर्यायाः, परि | अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, पाठान्तरं पर्यय इति, तत्र पर्ययणं पर्ययः, भावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययः मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपवज्ञान मनःपर्ययज्ञानं वा, अथवा मनःपर्यायेति पाठान्तरं, तत्र मनांसि पर्येति-सर्वात्मना परिच्छिनत्ति मनःपयायं, 'कर्मणोऽण' मनःपर्यायं च तत् ज्ञानं च मनःपर्यायज्ञानं, यदिवा मनसः पर्यायाः मनःपर्यायाः, पोया धर्मा बाझवस्त्यालोचनप्रकारा इत्यनर्थान्तरं, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चाद्धेतृतीयद्वीपसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रग्यालम्बनं, तथा केवलं-एकं मत्यादिज्ञाननिरपेक्षत्वात् , 'नटुंमि उ छाउमथिए नाणे [[नटे तु छानस्थिके ज्ञाने] इति वचनात् शुद्धं पा केवलं तदावरणमलकलङ्कविगमात् सकलं या केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसरशत्वात् अनन्तं पा केवलं ज्ञेयानन्तत्वात् , केवलं च तत् ज्ञानं च केवलज्ञानं, तथा मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशालभन्ते, उक्तं च-"आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त"मिति, 'विभङ्ग' इति |
Pron20200282
दीप अनुक्रम [५७२]
~160~