________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [२८],-------------- उद्देशक: [२],------------ दारं [४-७], -------------- मूलं [३१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१०]
दीप अनुक्रम [५६२-५६५]
विषयं सूत्रं, सामान्यतो जीवपदे आहारका अपि अनाहारका अपि इत्येष एव भङ्गः, उभयेषामपि सदा सम्यग्दृष्टी-RI नां बहुत्वेन लभ्यमानत्वात्, नैरयिकभवनपतितिर्यपञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषु प्रत्येकं भात्रिक, तद्यथा-कदाचित्सर्वेऽप्याहारका एव १ कदाचिदाहारका एकश्चानाहारका २, कदाचिदाहारकाश्च अनाहारकाव ३. द्वित्रिचतुरिन्द्रियेषु पुनः षह भङ्गाः, ते च प्राग्वद भावनीयाः, द्वीन्द्रियादीनां च सम्यग्दृष्टित्वमपयोंसावस्थासम्भवि-1 साखादनसम्यक्त्वापेक्षया द्रष्टव्यं, सिद्धास्त्वनाहारकाः, एतेषां क्षायिकसम्यक्त्वयुक्तत्वात् , तथा चाह-'बेइंदियतेदियचउरिदिएसु छन्भंगा, सिद्धा अणाहारगा, अवसेसाणं तियभंगों' मिथ्यादृष्टिष्वपि एकवचने सर्वत्र स्थादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने जीवपदे पृथिव्यादिपदेषु च प्रत्येकमाहारका अपि अनाहारका अपीति, उभयेषामपि सर्वदैव तेषु बहुत्वेन लभ्यमानत्वेन, शेषेषु तु सर्वेषु स्थानेषु भङ्गत्रिकं, सिद्धसूत्रं चात्र न वक्तव्यं, सिद्धानां मिथ्यात्वापगमात्, एतदेवाह-'मिच्छादिट्ठीसु जीवेगिदियवज्जो तियभंगो, सम्मामिच्छदिहीणं भंते ! जीवे इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! आहारको नो अनाहारकः, कस्यादिति चेत्, उच्यते, इह संसारिणामनाहारकत्वं विग्रहगती, न च सम्यग्मिच्यारष्टित्वं विग्रहगताववाप्यते, कालकरणायोगात्, 'सम्मामिच्छो न कुणइ कालं' [सम्यग्मिथ्या न करोति कालं] इति वचनात् , ततः सम्यग्मिध्यादृष्टेर्विग्रहगत्वभावतोऽनाहारकत्वाभावः, एवं चतुर्विंशतिदण्डकक्रमेण सर्वत्रापि वक्तव्यं, नवरमेकेन्द्रियविकलेन्द्रिया न वक्तव्याः, तेषां सम्यग्मिथ्यादृष्टित्वा
~142~