SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], -------------दारं [१-३], -------------- मूलं [३०९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३०९] पना- याः मल- य०वृत्ती. ॥५१॥ गाथा अत्रोभयत्रापि बहुवचनं, एष च भङ्गो यदा बहवो विग्रहगत्योत्पद्यन्ते तदा द्रष्टव्यः, शेपभङ्गकास्तु न सम्भवन्ति, २८आहाआहारकपदस्य नैरयिकाणां सर्वदैव बहुवचनविषयतया लभ्यमानत्वात् , एवमसुरकुमारादिषु स्तनितकुमारपर्यवसानेषु रपदे उद्देद्वीन्द्रियादिषु च वैमानिकपर्यन्तेषु प्रत्येकं भङ्गत्रिकं भावनीयं, उपपातविरहभावतः प्रथमभङ्गस्य एकादिसङ्ख्यतयोत्पत्तेःशः२ सू. शेषस्य च भङ्गद्यस्य सर्वत्रापि लभ्यमानत्वात् , एकेन्द्रियेषु पुनः पृथिव्यप्तेजोवायुवनस्पतिरूपेषु प्रत्येकमेष एवैको ३०९ भङ्गः आहारकाः अनाहारका अपि, पृथिव्यप्तेजोवायुपु प्रत्येकं प्रतिसमयमसङ्ख्यातानां वनस्पतिषु प्रतिसमयमनन्तानां विग्रहगत्योत्पद्यमानानां लभ्यमानतया अनाहारकपदेऽपि सदैव तेषु बहुवचनसम्भवात् , तथा चाह-एवं जाव माणिया नवरं एगिदिया जहा जीवा' इति, एवं-नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः, नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाः प्रत्येकं यथा उभयत्रापि बहुवचने जीवा उक्तास्तथा वक्तव्याः, सिद्धेष्वेक एव भङ्गोऽनाहारक इति, सकलशरीरप्रहाणतस्तेषामाहारासम्भवात् बहूनां च सदा भावात् इति, गतं प्रथमं द्वारं ॥ द्वितीयं भव्यद्वारमभिधित्सुराह-'भवसिद्धिए णं भंते !' इत्यादि, भरैः सङ्ख्यातरसङ्ख्यातैरनन्तैर्वा | सिद्धियस्यासी भवसिद्धिको भव्यः, स कदाचिदाहारकः कदाचिदनाहारकः, विग्रहगत्याद्यवस्थायां अनाहारकः शेष-IMInaam कालं त्वाहारकः, एवं चतुर्विंशतिदण्डकेऽपि प्रत्येकं वाच्यं, तथा चाह-एवं जाव वेमाणिए' अत्र च सिद्धविषय सूत्र न वक्तव्यं, मोक्षपदप्रासतया तस्य भवसिद्धिकत्वायोगात्, अत्रैव बहुवचनेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह दीप अनुक्रम [५५८-५६१] recedeseseserseas ~133~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy